________________
ALCCASUALLSANSAR
समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततः स-1 मुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गहते-जुगुप्सते गडमिति गम्यते, तथा वचसा वा-वाचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाजनरञ्जनार्थ ५ गर्हाप्रवृत्ताकारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगे'त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थः-अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचमाऽपि न केवलं मनसा एक इति स एव गहेते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गोद्वैविध्यमाह'अहवे'त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विविधा गहों प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घाबहती अद्धां-कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपे| क्षिकत्वात् दीर्घहस्वयोरिति, एवमपि हस्वाम्-अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् इस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ इस्वं वा कालमेव गर्हत इति ॥ अतीते गये कर्मणि गर्दा भवति भविष्यति तु प्रत्याख्यानम् , उक्तं च-“अईयं निंदामि पडुप्पन्नं संवरेमि | अणागयं पच्चक्खामी'ति प्रत्याख्यानमाह
दुविहे पञ्चक्खाणे पं० २०-मणसा वेगे पञ्चक्खाति वयसा वेगे पञ्चक्खाति, अहवा पञ्चक्खाणे दुविहे पं० तं०-दीहं १ अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि.
C
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org