________________
श्रीस्थानानसूत्र
वृत्तिः
विध्यं
पमजणया चेव'त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राक- १ स्थानतत्वेन आदानादीनां भावविवक्षया वेति । द्वितीयाऽपि द्विविधा-'आयसरीरे'त्यादि, तत्रात्मशरीरानवकाङ्कनप्रत्यया काध्ययने स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति । 'दो किरियेत्यादि त्रीणि सूत्राणि,
उद्देशः१ कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति ॥ एताश्च गर्हाद्वैक्रियाः प्रायो गर्हणीया इति गर्हामाह
दुविहा गरिहा पं० सं०-मणसा वेगे गरहति । वयसा वेगे गरहति । अहवा गरहा दुविहा पं० तं०-दीहं वेगे अद्धं
गरहति, रहस्सं वेगे अद्धं गरहति । (सू० ६१) 'दुविहा गरहे'त्यादि, विधानं विधा द्वे विधे-भेदौ यस्याः सा द्विविधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, साच स्वपरविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च-"अप्पाहन्नेऽवि इहं कत्थइ दिवो हु दव्वसहोत्ति । अंगारमद्दओ जह दवायरिओ सयाऽभब्वो ॥१॥"त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगहेति, चतुर्द्धा गर्हणीयभेदाद्बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह-मणसा वेगे गरहईत्ति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचे-IPI॥४३॥ त्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसा
१ अप्राधान्येऽपि इह कचिदृष्ट एव द्रव्यशब्द इति । अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः ॥१॥
Jain Education Internalonal
For Personal & Private Use Only
www.jainelibrary.org