________________
1525
SASSASSANASSAUSAISISSA
चेव'त्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिनिसर्जनं सा जीवनसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुर्बादौ जीवं-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, पुनरन्यथा द्वे 'आणवणिया चेव'त्ति आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सेवाज्ञापनिका तजः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वेयारणिया चेव'त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारिणीत्यादि वाच्यमिति ॥ एते च द्वे अपि द्वेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाऽऽ-12 ज्ञापनी अजीवानायनी वेति ॥ तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वा|ऽसमानभाषेषु विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेइत्ति भणितं होति, अथवा जीवं-पुरुषं वितार
यति-प्रतारयति वश्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्ध्यैव वाऽजीवं भणत्येतादृशमे| तदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया वत्ति । एतत्सर्वमतिदेशेनाह–'जहेव नेसत्थिय'त्ति, अन्यथा वा द्वे 'अणाभोगवत्तिया चेव'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अणवखवत्तिया चेव'त्ति अनवकाङ्क्षा-स्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति, आद्या द्विधा-'अणाउत्तआइयणया चेव'त्ति | अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा 'अणाउत्त
१ असमानभागेषु यो विक्रीणाति द्वैभाषिको वि० २ वाऽसमानभावेषु प्र. ३ व्यवहारे द्वारीभवति ( द्विलालः)
स्था०८
dain Education
For Personal & Private Use Only
tom.jainelibrary.org