________________
श्रीस्थानागसूत्रवृत्तिः
॥४२॥
ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आद्या द्वेधा-'जीवदिहिया चेव'त्ति या अश्वादिदर्शनार्थ गच्छतः, २ स्थानतथा 'अजीवदिहिया चेव'त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थ गच्छतो या सा अजीवदृष्टिकेति, एवं 'पुट्टिया काध्ययने चेव'त्ति 'एव'मिति जीवाजीवभेदेन द्विधैव, तथाहि-जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवY- क्रियाणां ष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति । पुनरन्यथा द्वे-पाडुचिया चेव'त्ति बाह्यं वस्तु प्रतीत्य- द्वैविध्यं आश्रित्य भवा प्रातीत्यिकी तथा 'सामन्तोवणिवाइया चेव'त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा-'जीवपाडुच्चिया चेव'त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुच्चिया चेव'त्ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति । द्वितीयापि द्विधैवेत्यतिदिशन्नाह–एवं सामन्तोवणिवाइयावित्ति, तथाहि-कस्यापि षण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीव-13 सामन्तोपनिपातिकीति, अन्यथा वा द्वे 'साहत्थिया चेव'त्ति स्वहस्तेन निवृत्ता स्वाहस्तिकी तथा 'नेसत्थिया चेव'त्ति, | निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति,
तत्र आद्या द्वेधा-'जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा | 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीर्ति, अथवा ॥४२॥ स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति । द्वितीयाsपि जीवाजीवभेदैवेत्यतिदिशन्नाह–'एवं नेसत्थिया
Jain Education
For Personal & Private Use Only
Lainelibrary.org