SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ कीति, एवं 'पारिग्गहिया चेव'त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः। पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया-शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादसणवत्तिया चेव'त्ति मिथ्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा- 'आयभाववंकणया चेव'त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-चक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात् , तथा 'परभाववंकणया चेव'त्ति परभावस्य वङ्कनता-वञ्च-| नता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं-"तं तं भावमायरइ जेण परो वंचिजइ कूडलेहकरणाईहिं"ति, द्वितीयाऽपि द्वेधा-'ऊणाइरित्तमिच्छादसणवत्तिया चेव'त्ति ऊनं-स्वप्रमाणाधीनमतिरिक्तततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि-कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमानं [यवमात्रं] श्यामाकतन्दुलमात्रं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा 'तव्वइरित्तमिच्छादसणवत्तिया चेव'त्ति तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शन-नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति। पुनरन्यथा द्वे-दिहिया चेव'त्ति दृष्टांता दृष्टिजा अथवा दृष्ट-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिकादर्शनार्थ या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका वा, तथा 'पुट्टिया चेव'त्ति पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्टं-प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं JainEducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy