________________
श्रीस्थानागसूत्रवृत्तिः
॥४१॥
वायकिरिया चेवत्ति प्रतीता, तभवतीति । आद्या द्वेधा-सहपातक्रिया, तथा 'परहत्थपाणावात
|धिकरणिकीति । पुनरन्यथा द्वे-'पाउसिया चेव'त्ति प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी, तथा 'पारियावणिया २ स्थान
चेव'त्ति परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी, आद्या द्विधा-'जीवपाउसिया चेव'त्ति काध्ययने जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव'त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति, क्रियाणां द्वितीयाऽपि द्विविधा-सहत्यपारियावणिया चेव'त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारि- द्वैविध्यं तापनिकी तथा 'परहत्थपारियावणिया चेव'त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति ॥ अन्यथा द्वे 'पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपञ्चक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्म-12 बन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा-'सहत्थपाणाइवायकिरिया चेव'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चव'त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीवअपच्चक्खाणकिरिया चेव'त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीवअपचक्खाणकिरिया चेव'त्ति | यदजीवेषु-मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति । पुनरन्यथा द्वे 'आरंभिया चव'त्ति | आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव'त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी ॥ आद्या
द्वेधा 'जीवआरम्भिया चेव'त्ति, यज्जीवानारभमाणस्य-उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारं|भिया चेव'त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भि
Jain Education
For Personal & Private Use Only
Mainelibrary.org