________________
जीवादिकं वस्तु अस्ति' विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो 'जदत्थिं चणं'ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवं चास्य प्रयोगः-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति 'लोके' पञ्चास्तिकावात्मके लोक्यते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्व निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपयेयलक्षायोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयारंति क्वचित् पठ्यते, तत्र द्वयोःप्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासे, 'जीवच्चेव अजीवच्चेव'त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन इस्वः, चकारौ समुच्चयार्थों, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत् , नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'चेय' इति वा एवकारार्थः 'चिय च्चेय एवार्थ' इति वचनात् , ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेषं तथैव । अथ त्रसेत्यादिकया नवसूच्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति-तसे चेवेत्यादि, तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयः
स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः-पृथिव्यादयः, सह योन्या-उत्पत्तिस्थानेन सयोनिकाः-संसारिणस्तहै द्विपर्यासभूताः अयोनिकाः-सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः-सिद्धाः, एवं सेन्द्रियाः-संसारिणः,
CABANANANASRNIAGARASSA
Jain Education
For Personal & Private Use Only
kanelibrary.org