________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३८ ॥
अथ द्वितीयं द्विस्थानकाख्यमध्ययनं
व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनं, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य चायं विशेष सम्बन्धः - इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवत् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् -
जत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा— जीवश्चैव अजीवश्चेव । तसे चेव थावरे चेव १, सजोणियच्चैव अजोणियचैव २, साउयच्चैव अणाउयच्चैव ३, सइंदियश्चेव, अणिंदिए चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चैव रूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चैव असंसारसमावन्नगा चेव ८, सासया चेव असासया चेव ९, ( सू० ५७ )
अस्य च पूर्वसूत्रेण सहायं सम्बन्धः - पूर्व ह्युक्तम् 'एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपि पुद्गला | भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति ?, उच्यते, भवन्त्येव, यतो 'जदत्थी' त्यादि, परम्परसूत्रसम्बन्धस्तु - 'श्रुतं | मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मेत्यादि, तथेदमपरमाख्यातं ' जदत्थी' त्यादि, संहितादिचर्चः पूर्ववत्, 'यद्',
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
जीवानां
द्वैविध्यं
11 36 11
www.jainelibrary.org