SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आ|रभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम् , एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि २६०, विशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भङ्ग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह-'एगा जहन्नप्पएसियाण'मित्यादि, जघन्याः-सर्वाल्पाः प्रदेशाः-परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, घ्यणुकादय इत्यर्थः, स्कन्धाः-अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशाः-अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम् , एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्वमिति । 'जहन्नोगाहणगाणंति अवगाहन्ते-आसते यस्यां साऽवगाहना-क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम् , एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्खयेयप्रदेशावगाढानामित्यर्थः । जघन्या -जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः, तेषां, उत्कर्षा-उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं, जघन्येन-जघन्यसयाविशेषेणैकेनेत्यर्थःगुणो-गुणनं ताडनं यस्य स तथा(तथा)विधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम् , एवमुत्क १ एकस्मादारभ्य दशान्ताः संख्येयासंख्येयानन्ताश्चेति त्रयोदश। २ खखवर्गणायां जघन्यानां वर्गणानामनेकविधत्वात् अणुकादय इति. dain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy