SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- दशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः तेषामेवं 'जाव'त्तिकरणाद् 'दुसम- १ स्थानागसूत्र यसिद्धाणं तिचउपंचछसत्तहनवदससंखेज्जासंखेजसमयसिद्धाण'मिति दृश्य, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विस- ध्ययने वृत्तिः दमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, सिद्धभेदाः क्वचित् 'पढमसमयसिद्धार्णति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा ॥३४॥ एव व्याख्यातव्याः, घ्यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥ इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते-पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो-निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहस्तेषां, एवंकरणात् 'दुपएसियाणं खंधाणं तिचउपंचछसत्तहनवदससंखेजपएसियाणं असंखेजपएसियाण'मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते—'एगा एगपएसे'त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढाः-अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति, 'जाव एगा असंखेजपएसोगाढाण'ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति, कालत आह-एगा एगसमए'त्यादि, एक समयं यावत् स्थितिः-परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमय-1 ॥३४॥ स्थितेः पुद्गलानामभावाद् असोजसमयद्वितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं| R Jain Education International For Personal & Private Use Only dowamlainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy