________________
36436
नामाचार्य सन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बुद्धबोधिताः - आचार्यादिबोधिताः सन्तो ये सि|द्धास्ते बुद्धबोधितसिद्ध स्तेषां ७, एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंल्लिङ्गसिद्धानां ९ नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां | १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां १४ अनेकसिद्धानामेकसमये व्यादीनां अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणा गाथा - 'बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्या । चुलसीई छन्नउई दुरहिय अट्ठोत्तर सयं च ॥ १ ॥ एतद्विवरणं यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान् यावत् द्वात्रिंशत् सिध्यन्ति तत ऊर्ध्वमवश्यमेवान्तरं भवतीति यदा पुनस्त्रयस्त्रिंशद ( त आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिद्ध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्ध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादि कृत्वा यावत् षष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट् समयान् सिद्ध्यन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमन्यत्रापि योज्यम्, यावत् अष्टशतमेकसमयेन यदा सिद्ध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते - अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि ॥ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तमिदानीं परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण' मित्यादित्रयो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org