________________
१ स्थानाध्ययने नारकदेवसिद्धिः
श्रीस्थाना-14 पुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थक पदं, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः
सन्ति देवा इति प्रत्येतव्यम् , अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, वृत्तिः अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम् , उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावें
माणवके सिंहोपचार इति, आह च-"देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ च्चिय देवो ॥२९॥
गुणरिद्धिसंपन्नो ॥१॥ तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे माणव सीहोवयारोव्व |॥२॥” इति, अपि च-"देवेसु न संदेहो जुत्तो जं जोइसा सपच्चक्खं । दीसंति तक्याविय उवघायाणुग्गहा जगओ॥१॥ आलयमेत्तं च मई पुरं च तव्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा ॥२॥ को जाणड व किमेयंति होज णिसंसयं विमाणाइ । रयणमयनभोगमणादिह जह विज्जाहरादीणं ॥३॥" इति, तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः?, उच्छासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं-वनस्पतयो
| १ देव इति सार्थकमिदं शुद्ध(पद)त्वात् घटाभिधानमिव । अथ च मतिर्मनुजश्चैव देवो गुणद्धिसंपन्नः॥१॥ तन्न यतस्तथ्यार्थे सिद्ध उपचारतो मता सिद्धिः। तथ्यार्थसिंहे सिद्धे माणवके सिंहोपचारवत् ॥ २॥ २ देवेषु न संदेहो युक्तो यत् ज्योतिष्काः खप्रत्यक्षेण । दृश्यन्ते तत्कृता अपि चोपघातानुग्रहा जगतः॥१॥ आलयमात्रं च मतिः पुरमिव तद्वासिनः तथापि सिद्धाः । ये ते देवा इति मता न च निलया नित्यं प्रतिशून्याः ॥२॥ को जानाति किमेतदिति भवेत् ?, निस्संशयं विमानादि । रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् ॥ ३ ॥
॥ २९॥
Jain Education
For Personal & Private Use Only
Amainelibrary.org