________________
SALASAMACLEOCHAURUSALM
चायं-'नेरइया १ असुरादी १० पुढवाइ ५ बेइंदियादयो चेव ४ । नर १ वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं ॥१॥" भवनपतयो दशधा-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवणथणियनामा दसहा एए भवणवासि ॥२॥" त्ति, एतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विंशतितमं 'एगा वेमाणियाणं वग्गण'त्ति, एष सामान्यदण्डकः । ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि-न सन्ति नारकाः, तत्साधकप्रमाणाभावात् , व्योमकुसुमवत् , अत्रोच्यते, प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात् , तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलं, कर्मफलत्वात् , पुण्यकर्मफलवत् , न च तिर्यड्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् , विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् , आह च| "पावफलस्स पगिहस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होज्जा ॥१॥ अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥२॥" ति, 'अवसेसव्य'त्ति यथा नारकेभ्योऽन्ये तिर्यड्नरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्ट-10
नैरयिका असुरादयः पृथ्व्यादयो द्वीन्द्रियादयवैव । नरा व्यन्तरा ज्योतिष्का वैमानिका दण्डकवैवं ॥१॥२ असुरा नागाः सुपर्णा विद्युतः अप्रयश्च द्वीपा| उद्धयश्च । दिशः पवनाः स्तनितनामानः दशधा एते भवनवासिनः ॥१॥ ३ पापफलस्य प्रकृष्टस्य भोगिनः कर्मत्वात् अवशेषा (प्रकृष्टपुण्यफला देवा) इव । सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् ॥१॥ असन्तदुःखिता ये तिर्यड्नरा नारका इति तेऽभिमताः । तन्न यतः सुरसौख्यप्रकर्षसदृशं न तद्दुःखम् ॥२॥ ४ सव्वत्थ प्र.
Jain Education
For Personal & Private Use Only
Nilgainelibrary.org