SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ४ स्थाना० उद्देशः४ संज्ञाः |सू० ३५६ कामा: सू०३५७ ॥२७७॥ श 'चत्सारी'त्यादि व्यक्तं, केवलं संज्ञानं संज्ञा-चैतन्यं, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषः भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञावेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतया मत्या-आहारकथाश्रवणादिजनितया तदर्थोपयोगेन-सततमाहारचिन्तयेति । हीनसत्त्वतया-सत्त्वाभावेन मतिःभयवा श्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन-इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयो|गेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति । संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामाः-शब्दादयः, शृङ्गारा देवानां एकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, यदाह-"व्यवहारः 'नार्योरन्योऽन्यं रक्तयोरतिप्रकृतिः शृङ्गारः" इति, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्ट-1 त्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् , करुणो हि रसः शोकस्वभावः “करुणः शोकप्रकृति". रिति वचनादिति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात् , बीभत्सरसो हि जुगुप्सात्मको, यदाह-"भवति जुगुप्साप्रकृतिबीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोसादकत्वात् , रौद्ररसो हि क्रोधरूपो, यत आह“रौद्रः क्रोधप्रकृति"रिति । एते च कामाः तुच्छगम्भीरयो धकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह ॥२७७॥ dan EducUL For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy