________________
विधश्रोतुरधर्मबुद्धिजनकत्वाच्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, 'पडिलोमेति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थ तदपहृताभयकुमारश्च कारेति, . तद्दोषता चास्य श्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात् , अथवा धृष्टप्रतिवादिना द्वावेव राशी जीवश्चाजीवश्चेत्युक्त तत्प्रतिघातार्थ क-| श्चिदाह-तृतीयोऽप्यस्ति नोजीवाख्यो गृहकोलिकादिच्छिन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अ-5 त्तोवणीए त्ति आत्मैवोपनीतः-तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतं, तथाहि-कथमिदं तडागमभेदं भविष्यतीत राज्ञा पृष्टः पिङ्गलाभिधानः | स्थपतिरवोचत्-भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेना-18 स्मैव नियुक्तः, स्ववचनदोषात् , तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सर्वे सत्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह-अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्मान्तरस्थितपुरुषाणामात, तद्दोषता तु प्रतीतैवास्योते, 'दुरुवणीए'त्ति दुष्टमुपनीतं-निगमितं योजितमस्मिन्निति दुरुपनीत परिव्राजकवाक्यवद् , यथा हि किल कश्चित् पारव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्तेन किञ्चिदु-| क्तस्तेन च तस्योत्तरमसङ्गतं दत्तम् , अत्र च वृत्तं-“कन्थाऽऽचार्याऽधना ते ननु शफरवधे जालमनासि मत्स्यांस्तेमे ||२ |मद्योपदंशान् पिबास ननु ? युतो वेश्यया यासि वेश्याम् ? । दत्त्वाऽरीणा गलेऽहि क नु तव रिपवो? येषु सन्धि छिनद्मि, चौरस्त्वं? द्यूतहेतोः कितव ात कथं? येन दासीसुतोऽस्मि ॥१॥" इत्येवं प्रकृतसाध्यानुपयोगे स्वमतदूषणावहं वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org