________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
।। २५८ ।।
सप्तमनरकपृथिव्यां ततोऽसौ वभाण - अहं क्वोत्पत्स्ये ?, स्वामिनोतं-पठ्यां स उवाच - अहं किं न सप्तम्यां ?, स्वामिना | जगदे - सप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ - किमहं न चक्रवर्त्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे - तव रलनिधयो न सन्ति ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालि - कयक्षेण गुहाद्वारे व्यापादितः षष्ठीं गत इति । तथा 'निस्सावयणे'त्ति निश्रया वचनं निश्रावचनम्, अयमर्थः - कमपि | सुशिष्य मालम्ब्य यदन्यप्रबोधार्थ वचनं तन्निश्रावचनं तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माद्देवसम्पन्नमन्यमालम्ब्य किञ्चिद् ब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि -किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम ! मा त्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च“पुच्छाए कोणिए खलु निस्सावयणंमि गोयमस्सामि” [पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी ] इति ॥ व्याख्यातं तद्देशोदाहरणम्, तद्दोषोदाहरणमथ व्याख्यायते तच्च चतुर्द्धा, तत्र 'अहम्मजुत्ते 'ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्म्मबुद्धिरुपजन्यते तदधर्म्मयुक्तं, तद्यथा - उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि - पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणो| पायेन विश्वासिता मिलिताश्चौरा विषमिश्र भोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधम्र्म्मयुक्तत्वात् तथा
Jain Education International
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५८ ।।
www.jainelibrary.org