________________
सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च-"आहरणं तद्देसे चउहा अणुसहि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्टीए ॥ १॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥” इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनं उपालम्भो-भजयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालंभो यथा क्वचिदपराधवृत्तयो विनेया उपालम्भनीयाः यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी | स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरायचन्दनासमीपं गता तया चोपालब्धा-अयुक्तमिदं |भवादृशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोपद्यन्ते?, भगवताऽभिहितं
१ आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालंभः पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ ॥१॥ साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन वैयावत्यादिष्वपि एवं यतमानानप्युपबृंहयेत् ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org