________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २५७ ॥
"सेव्वभिचारं हेरं सहसा वोतुं तमेव अन्नेहिं । उवबूहइ सप्पसरं सामत्थं चप्पणो णाउं ॥ १ ॥” ति, तद्यथा - अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापि तमिति भवत्ययं स्थापनाकम्र्मेति, 'पडुप्पन्नविणासि'त्ति प्रत्युत्पन्नस्य - तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजाप| राधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यभ्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च -“होति पडुप्पन्नविणासणंमि गंधन्विया उदाहरणं । सीसोऽवि कत्थइ जई अज्झोवज्जेज तो गुरुणा ॥ १ ॥ वारेयव्वो उवाएणं” इति, अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्यन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते - कर्त्तवात्मा कथञ्चिन्मूर्त्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशो व्याख्यायते - स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्त्तनेनोपबृंहणं
१ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैः उपबृंहयति सप्रसंगं सामर्थ्य चात्मनो ज्ञात्वा ॥ १ ॥ २ भवति प्रत्युत्पन्नविनाशने गांधर्विकोदाहरणं शिष्योऽपि कुत्रापि यदि अभ्युपपद्येत तदा गुरुणोपायेन वारयितव्यः ॥
Jain Education International
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५७ ।।
www.jainelibrary.org