________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २५९ ॥
४ स्थाना०
यत्तद्दान्तिकेन सह साधर्म्याभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुत|स्तत्साधर्म्याच्छब्दस्य नित्यत्वमस्तु ?, अपि त्वनित्यत्वात् घटस्य तत्साधर्म्याच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति सा उद्देशः ३ ध्यानुपयोगीदमुदाहरणम्, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्याव - स्तुता प्रतीयते, तथाहि - दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षण सत्त्वाभावादन्त्यक्षणस्यावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छन्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा: - "पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवनासो । दुरुवणियं च चउत्थं अहम्मजुत्तंमि नलदामो ॥ १ ॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो" इति " असउवन्नामि य तलाय भेयंमि पिंगलो थवई । अणिमिसगेण्हणभिच्छुग दुरुर्वणीए उदाहरणं ॥ १ ॥” इति उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा तत्र 'तव्वत्थुए 'त्ति तदेव - परोपन्यस्तसाधनं वस्त्विति - उत्त
१ प्रथममधर्मयुक्तं प्रतिलोम आत्मन उपन्यासः दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः ॥ १ ॥ प्रतिलोनि यथाऽभयः प्रद्योतं हरति अपहृतः सन् ॥ आत्मोपन्यासे च तडाकभेदे पिंगलः स्थपतिः अनिमेषग्राहकभिक्षु रुपनीते उदाहरणं ॥ १ ॥
Jain Education International
For Personal & Private Use Only
आहरण
भेदाः
सू० ३३८
॥ २५९ ॥
www.jainelibrary.org