________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २५४ ॥
स्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्वकलङ्कादिनेति, तथा तस्यैव - आहरणस्य सम्बन्धी | साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धर्मे धर्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतदोष इति, अथवा तस्य - आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, अयमत्र भावार्थ : - यत्साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं, यथा नित्यः शब्दोऽमूर्त्तत्वात् घटवत्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणं, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्त्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्म्ममिच्छन्ति लौकिकमुनयोऽपि - " वरं कूपशताद्वापी, वरं वापीशताक्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् ॥ १ ॥” इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्म्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा - बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् घटवत् स चेश्वर इति अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्ध्यतीति, ईश्वरश्च स विवक्षित इति, | तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयो| गोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञातहेतुत्वादिति, यथा अकर्त्ताssत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्टं
Jain Education International
For Personal & Private Use Only
४ स्थाना• उद्देशः ३
आहरण
भेदाः
सू० ३३८
॥ २५४ ॥
www.jainelibrary.org