________________
तं०-तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू हेऊ ५, चउव्विहे-पं० २०-जावते थावते वंसते लूसते, अथवा हेऊ चउठिवहे पं० २०-पञ्चक्खे अणुमाणे ओवम्मे आगमे, अहवा हेऊ चउबिहे पं० २०-अत्थित्तं अत्थि सो हेऊ १,
अत्थित्तं णस्थि सो हेऊ २, णत्थित्तं अत्थि सो हेऊ ३, णत्थित्तं णत्थि सो हेऊ ४ (सू० ३३८) तत्र ज्ञायते अस्मिन् सति दार्शन्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्येतरो द्विधा ॥१॥" इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अन्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि-"जह तुन्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥१॥" [यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं शिक्षयति पतत् पांडुपत्रं किशलयान् ॥१॥] इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्| उपपत्तिमात्रं ज्ञातहेतुत्वात् , कस्माद्यवाः क्रीयन्ते ? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति-तत्र आ-अभिविधिना हियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्शन्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देश
तभेदात् विधा, तन्तु अन्यभावे धूमो नम द्विधा ॥१॥” इति, पदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org