________________
| "एवं बेइंदियाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागो"त्ति, द्वीन्द्रियाणां पर्याप्ताकापर्याताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः] एवं शेषाणामपीति । चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह-‘चत्तारी'त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण-प्रदेशपरिमाणेनेति तुल्याः-समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात् , 'लोयागासे'त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिका-18 यादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणं, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति । पूर्व पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह
चउण्हमेगं सरीरं नो सुपस्सं भवइ, तं०-पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं (सू० ३३५) चत्तारि इंदियस्था पुट्ठा वेदेति, तं०-सोतिंदियत्थे घाणिदियत्थे जिभिदियत्थे फासिंदियत्थे (सू० ३३६) चउहि ठाणेहि जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तं०-गतिअभावेणं णिरुवग्गहताते लुक्खताते लोगा
णुभावेणं (सू० ३३७) 'चउण्ह'मित्यादि कण्ठ्यं, किन्तु 'नो पस्संति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात् , क्वचित् नो सुपस्संति पाठः, तत्र न सुखदृश्यं-न चक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमने वा अदृश्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह-'चत्तारि इंदिये'त्यादि, स्पष्टं, किन्तु इन्द्रियै
CACANCC
-9-4
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org