SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥२५२॥ तु सर्वलोकादुद्वत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोपद्यमानानां द्वयोरुद्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्ट- त्वाच'चउहिं बादरकाएहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्वृत्त्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्ख्येयभागमेव स्पृशन्तीति, उक्तश्च प्रज्ञापनायाम्- “एत्थ णं बादरपुढविकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे," तथा "बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए,” एवमब्वायुवनस्पतीनां, तथा "बादरतेउक्काइयाणं पजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे" बादरतेउक्काइयाणं अपज्जत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उडूकवाडेसुं तिरियलोयतटे य" त्ति द्वयोरूद्ध कपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा “कहिन्नं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता?, गोयमा! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो!" त्ति, एवमन्येऽपि, ४ स्थाना० उद्देशः३ सत्त्वप्रतिमाजीवस्मृटलोकस्मृष्टप्रदेशाग्रतुल्याः सू०३३०३३४ RAKASARKARISRKES ॥२५२॥ १ अत्र वादरपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरपृथ्वीकायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि | उपपातेन सर्वलोके, बादरतेजस्कायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरतेजस्कायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि लोकस्य द्वयोरूर्वकपाटयोस्तिर्यग्लोके च (स्थाले च)॥२ क भदन्त ! सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि !, गौतम | सक्षमपृथ्वींकायिका ये पर्याप्ता ये चापर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापनाः प्रज्ञप्ताः श्रमणायुष्मन् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy