________________
योरन्यतरस्यामभिग्रहः, गच्छान्तरगतानां तु चतस्रोऽपि कल्पन्त इति, वस्त्रप्रतिमा-वस्त्रग्रहणविषये प्रतिज्ञाः, कार्यासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति च-|| तुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये १, तथा प्रेक्षितं २ तथा दातुः स्वाङ्गिक परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थान-कायोत्सर्गाद्यर्थ आश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र | चाकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समा
श्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया लात्वाकुश्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त * इति शरीरप्रस्तावादिदं सूत्रद्वयं-'चत्तारी'त्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टा
न्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिक जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मुम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, गताथै, केवलं 'फुडे'त्ति स्पृष्टः-प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्सादात् बादरतैजसानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org