________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २५१ ॥
चत्तारि वत्थपडिमाओ पं०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं० ( सू० ३३१ ) चत्तारि सरीरगा जीवफुडा पं० तं० – वेडम्बिए आहारए तेयए कम्मए, चत्तारि सरीरगा कम्मुम्मीसगा पं० तं० – ओरालिए वेडव्विए आहारते तेते (सू० ३३२) चउहिं अत्थिकाएहिं लोगे फुडे पं० तं० — धम्मत्थिकाएणं अधम्मत्थिफाएणं जीवत्थिकारणं पुग्गलत्थिकाएणं, चउहिं बादरकातेहिं उववज्जमाणेहिं लोगे फुडे पं० तं० - पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं (सू० ३३३ ) चत्तारि पएसग्गेणं तुल्ला पं० तं० - धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे (सू० ३३४)
'चत्तारी 'त्यादि, हिया - लज्जया सत्त्वं- परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा हिया - हसि - ध्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्ष कम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स हीमनःसत्त्वः, चलम् - अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात् स्थिरसत्त्व इति । स्थिरसत्त्वोऽनन्तरमुक्तः स चाभिग्रहान् प्रतिपद्य पालयतीति तद्दर्शनाय सूत्रचतुष्टयमिदं - 'चत्तारि सिज्जे' त्यादि, सुगमं, नवरं शय्यते यस्यां सा शय्या - संस्तारकः तस्याः प्रतिमा - अभिग्रहाः शय्याप्रतिमाः, तत्रोद्दिष्टं फलकादीनामन्यतमत् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तर
Jain Education International
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३ सत्त्वप्रति
माजीवस्पृष्टलोकस्पृ
ष्टप्रदेशा
प्रतुल्याः
सू० ३३०३३४
।। २५१ ॥
www.jainelibrary.org