SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विवक्षितं, ज्ञानादित्रयस्य सम्यक्शब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात् , मोक्षमार्गभूतं चैतत्रयं श्रद्धानप येणैव दर्शनेन सहेति । 'एगे दंसणे'त्ति, दृश्यन्ते-श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशमो वा, दृष्टिा दर्शन-दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम् , एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याज्ज्ञानसम्यक्त्त्वयोः कः प्रतिविशेषः?, उच्यते, रुचिः सम्यक्त्त्वं रुचिकारणं तु ज्ञानं, यथोक्तम्-"नाणमवायधिईओ दसणमिडं जहोग्गहेहाओ। तह तत्तरुई सम्म रोइज्जइ जेण तं नाणं ॥२॥"ति, 'चरित्तेत्ति चर्यते-मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति-चारित्रमोहनीयक्षयाद्याविभूत आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितद्भेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भा-18 | वाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नाश्रद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह- एगे समए (सू० ४४) एगे पएसे एगे परमाणू (सू०४५) एगा सिद्धी । एगे सिद्धे । एगे परिनिवाणे । एगे परिनिब्बुए (सू० ४६) 'एगे समए' समयः-परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताजरत्पट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धा१ज्ञानमपायधृत्यौ दर्शनमिष्टं यथाऽवग्रहेहे । तथा तत्त्वरुचिः सम्यक्त्वं रोच्यते येन तत् ज्ञानम् ॥१॥ 55015 Jain Educationneी For Personal & Private Use Only vww.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy