________________
श्रीस्थाना
गसूत्रवृत्तिः
॥२४२॥
संपंउत्तो दोहिवि एकेकगेणेव ॥१॥" इति, त्रिभिरिति-प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्यों-गुरुः उद्देशनाचार्यः, उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्तेगुरोः समीपे वस्तु शीलमस्यान्तेवासी-शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह-धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यः, धार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्मान्तेवासीति, निर्गता बाह्याभ्यन्तरग्रन्थान्निग्रन्थाः-साधवो, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रात्निकः पर्यायज्येष्ठ इत्यर्थः श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाका,, महती क्रिया-कायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येका, अन्यस्तु पर्यायज्येष्ठ एवाल्पका-लघुकर्मा अल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो-लघुः पर्यायेण रात्निको अवमरालिकः, एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम'त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ॥
चत्तारि समणोवासगा पं० २०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा पं० तं०-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटयसमाणे ४ (सू० ३२१) समणस्स णं भगवतो महावीरस्स १ संयुक्तः द्वाभ्यामेकैकेन वा (प्रव्राजकादयः)॥१॥
| उद्देशः३ यानयुग्यसारथिप्रभृतिचतु. सू० ३२० | मातापित्रादिसमाः श्रावका सू० ३२१
॥२४२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org