SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ - पडिवगत एकद्वारं प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिस्रः सोपानपङ्कयः, दधिवत् श्वेतं मुखं - शिखरं रजतमयत्वात् येषां ते तथा उक्तं च - "संखदल विमलनिम्मलदहिघणगोखीरहार संकासा । गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥ १ ॥” इति बहुमध्यदेश भागे - उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासु रतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरवि दिग्द्वय रतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्द्धाधिपतित्वात् तस्येति एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु ४-१६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुपु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखं सुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते पञ्चदशस्थानोद्धारलेशः - "सोलसद हिमुहसेला कुंदामल संखचंद संकासा । कणय निभा बत्तीसं रइकरगिरि बाहिरा तेसिं ॥ १ ॥" द्वयोर्द्वयोर्वाप्योरन्तराले बहिः कोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, “अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा ॥ १ ॥” इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच्च पूर्वोक्तं सर्व सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् - च १] शंखदलविमलनिर्मलदधिधनगोक्षीरमुक्ताहारसंकाशाः । गगनतलमनु लिखन्तः शोभन्ते दधिमुखा रम्याः ॥ १ ॥ २ दधिमुखशैलाः षोडशामल कुंदशंखचंद्रसंकाशाः । द्वात्रिंशदतिकराः कनकनिभाः तयोः ( वाप्योः ) बहिः ॥ १ ॥ २ अंजनकादिगिरीणां नानामणिप्रज्वलच्छिखरेषु द्विपंचाशज्जिनगृहाणि मणिरत्नमयानिसहस्राणि कूटवराः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy