________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २३२ ॥
तथा सिद्धानि - शाश्वतानि सिद्धानां वा- शाश्वतीनामर्हत्प्रतिमानामायतनानि - स्थानानि सिद्धायतनानि, उक्तं च- "अंजणगपव्त्रयाणं सिहरतलेसुं हवंति पत्तेयं । अरहंताययणाई सीहणिसायाइं तुंगाई ॥ १ ॥” मुखे अग्रद्वारे आयतनस्य मण्डपा मुखमण्डपाः पट्टशालारूपाः प्रेक्षा- प्रेक्षणकं तदर्थं गृहरूपाः मण्डपाः प्रेक्षागृह मण्डपाः प्रसिद्धस्वरूपाः, वैरं वज्रं रत्नविशेपस्तन्मयाः आखाटकाः - प्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदुष्याणि - वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशाः अवलम्बननिमित्तं कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि - मुक्ताफलमालाः, कुम्भप्रमाणञ्च - " दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवापत्थो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाई जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो" इति, 'तदद्धे 'ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्द्धाश्वत्वप्रमाणानि तान्येव तन्मात्राणि तैः 'अद्धकुंभिक्केहिं' ति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः सर्वासु दिक्षु, किमुक्तं भवति ? - समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः - प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्यस्तूपाः संपर्यङ्कनिषण्णाः - पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, महेन्द्रा इति-अतिमहान्तः समयभाषया ते च ते ध्वजाश्वेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, 'सत्तपन्नवणं' ति सप्तच्छदवनमिति, 'तिसोवाण
१ अंजनकपर्वतानां शिखरतलेषु भवंति प्रत्येकं । अर्हदायतनानि सिंहनिषद्यानि तुंगानि ॥ १ ॥ २ द्वे असती पसतिः द्वे पसती सेतिका चतस्रः सेतिकाः कुडवः चत्वारः कुडवाः प्रस्थकः चत्वारः प्रस्थकाः आढकः चत्वार आढकाः द्रोणः आढकषश्या जघन्यः कुंभोऽशीत्या मध्यमः शतेनोत्कृष्टः
Jain Education International
For Personal & Private Use Only
४ स्थाना० उद्देशः २ नन्दीश्व
राधि०
सू० ३०७
॥ २३२ ॥
www.jainelibrary.org