SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ CCCCC जोयणसयाई । अंजणगपब्वयाणं धरणियले होइ विक्खंभो ॥१॥” इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाण'त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सव्वंजणमय'त्ति अञ्जनं-कृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सर्वाञ्जनमयाः, परमकृष्णा इति भावः, उक्तं च-"भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायति । गगणतलमणुलिहता अंजणगा पब्बया रम्मा ॥१॥" इति, अच्छाः आकाशस्फटिकवत्, सण्हा-श्लक्ष्णपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-श्लक्ष्णा मसृणा इत्यर्थः, घुण्टितपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषा| णप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा | निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा 'निकंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया-शोभा येषां ते तथा अकलङ्कशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः यतः 'समिरीया' सह मरीचिभिः-किरणैर्ये ते तथा, अत एव 'सउज्जोया' सहोद्योतेन-वस्तुप्रभासनेन वर्त्तन्ते ये ते तथा 'पासाईयत्ति प्रासादीयाः-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः अभिरूपाःकमनीयाः प्रतिरूपाः द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहः, बहुसमा:-अत्यन्तसमा रमणीयाश्च ये ते १ योजनानामंजनकपर्वतानां धरणीतले भवति विष्कम्भः॥१॥ २ भुंगाङ्गगवलकरुचिरकज्जलांजनधातुसदृशा विराजन्ते गगनतलमनुलिखंत इवांजनकाः पर्वता रम्याः ॥१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy