SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ चत्तारि एका पं० २० दविए एकते माउ उकते पज्जते इक्कते संगहे इकते (सू०२९७) चत्तारि कती पं००दवितकती माउयकती पजवकती संगहकती (सू० २९८) चत्तारि सव्वा पं० तं०-नामसव्वए ठवणसव्वए आएससव्वते निरवसेससव्वते (सू० २९९) एकसयोपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैकक द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, 'माउपएक्कए'त्ति मातृकापदैककम्-एकं मातृकापदं, तद्यथा-उप्पन्ने इ वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादवीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अP | आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैककः-एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्ग्रहैकका शालिरिति, अयमर्थः-सङ्ग्रहः-समुदायस्तमाश्रित्यकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचिसाठः 'दविए एक्कए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति । कतीति प्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणि च तानि कति च द्रव्यकति कति द्रव्याणीत्यर्थः, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि । नाम च तत्सर्वं च नामसर्व सचेतनादेर्वा 8I वस्तुनो यस्य सर्वमिति नाम तन्नामसर्व नाम्ना सर्व सर्व इति वा नाम यस्येति विग्रहाद्-नामशब्दस्य च पूर्वनिपातः, तथा स्थापनया-सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्व स्थापनासर्व स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy