________________
सद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तद्व्याघात उच्यते, तत्र-'चउही'त्यादि सूत्रं स्फुटं, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्सद्यत इत्याह, 'अस्मिन्निति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये 'अइसेसे'त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यः, ज्ञानादेरभिलाषाभावात् , कथयितेति शीलार्थिकस्तृन् तेन द्वितीया न विरुद्धेति, 'विवेकेनेति अशुद्धादित्यागेन 'विउस्सग्गेणं'ति कायव्युत्सगर्गेण पूर्वरात्रश्च-रात्रेः पूर्वो भागो अपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समय:-अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, यथा-"किं कय किं वा सेसं किं करणिज तवं च न करेमि । पुब्वावरत्तकाले जागरओ भावपडिलेहा ॥१॥” इति, अथवा-"को मम कालो? किमेयस्स उचिय? असारा विसया नियमगामिणो विरसावसाणा भीसणो मन्चू ॥१॥” इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको भवति, अथवा धर्मजागरिकां जागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः-उच्छासादयः प्राणा यस्मात् स प्रासुको-निजीवस्तस्य एष्यतेगवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः-कल्प्यस्तस्य उञ्छयते-अल्पाल्पतया गृह्यत इत्युञ्छो-भक्तपानादिस्तस्य समु.|
१किं कृतं किं वा शेष किं करणीयं च तपश्च न करोमि पूर्वापररात्रकाले जाग्रतो भावप्रतिलेखना ॥१॥ २ को वा मम कालः ! किमेतयोचितं ? असारा विषया नियमगामिनो विरसावसानाः भीषणो मृत्युः॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org