________________
त्तोगाहणा कालोगाहणा भावोगाहणा (सू० २७६) चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं०-चंदपन्नत्ती
सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती (सू० २७७)॥ चउट्ठाणस्स पढमो उद्देसओ ॥१॥ 'चमरस्से'त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम् , नवरं 'महारन्नो'त्ति लोकपालस्याग्रभूताः-प्रधाना महिष्यो -राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एव वैरोचनाः-उत्तरदिग्वासिनोऽसुराः तेषामिन्द्रः, धरणसूत्रे 'एवं'मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतसश्चतस्रो भार्याः, एतदेवाह-'जाव संखवालस्स'त्ति, भूतानन्दसूत्रे 'एव'मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्तअमितगतिवेलम्बघोपाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानां ये लोकपालास्ते-18 पामपीति, एतदेवाह-'जहा धरणस्सेत्यादि । उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमत्त्वलक्षणमन्तरं सूत्रत्रयेणाह-'चत्तारी'त्यादि, गवां रसो गोरसः, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेष प्रकटम् , नवरं सर्पिः-घृतम् , नवनीत-म्रक्षणं,स्नेहरूपा विकृतयः स्नेहविकृतयो वसा-अस्थिमध्यरसः, महाविकृतयो-महारसत्वेन महाविकारकारित्वात् ,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org