________________
अथवा शंकारौ वाक्यालङ्कारार्थों, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च 'पडिक्खएणं'ति क्वचित्पाठो दृश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काश्चिदेव वाचनां व्याख्यास्याम इति ॥ इह बन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् ‘एगा जीवाणं इत्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह-'एगा जीवाणं अपरियाइत्ता वि
गुव्वणा' 'एगा जीवाणं' ति प्रतीतं 'अपरियाइत्त'त्ति अपर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान् है। पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् २ उत्सत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्ये
कमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीरा[A]पेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम् , अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते ?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात् , तथाहि-“देवे णं भंते ! महिड्डिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउवित्तए?, गोयमा! नो इणठे समडे, देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू"त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥ 'एगे मणे'त्ति मननं मनः-औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमानमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा अ
Jain Education
ex
For Personal & Private Use Only
S
ainelibrary.org