________________
१ स्थानाध्ययने एकयोगता
वृत्तिः
श्रीस्थाना
सङ्ख्यातत्वादसड्ख्यातभेदमप्येक मननलक्षणत्वेन सर्वमनसामेकत्वादिति ॥ 'एगा वइ'त्ति वचनं वाक्-औदारिकवैगसूत्र- क्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽ
प्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति ॥ 'एगे कायवायामे'त्ति चीयत इति कायः-शरीरं तस्य व्यायामो
व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन स॥२०॥
प्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव विशेषेण वक्ष्यति, 'एगे मणे देवासुरे'त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति ॥ 'उप्पत्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति ॥ 'वियइत्ति विगतिविंगमः, सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । 'वियच'त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगतार्चा, प्राकृतत्वादिति, विवर्चा वा-विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, सा चैका सामान्यादिति ॥ 'गइ'त्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैक| दैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा, पुद्गलस्य वा, स्थितिलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति ॥ | 'आगइत्ति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ॥'चयणे'ति च्युतिः च्यवनम्-वैमा*निकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ 'उववाए'त्ति, उपपतनमुपपातो
G
॥२०॥
JainEducati
o
nal
For Personal & Private Use Only
nelibrary.org