SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ | किमुक्तं भवति?-मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ'त्ति बहिर्द्धा-मैथुनं परिग्रहविशेषः आदानं च-परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं-परिग्राह्य वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजड़ा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोर्बु पालयितुं च न क्षमाः, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-"पुरिमा उज्जुजड्डा उ, वक्कजड्डा |य पच्छिमा। मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए ॥१॥ पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालए । कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥२॥” इति । अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाह १ प्रथमे ऋजुजडाः वकजडाच पाश्चात्याः मध्यमास्तु ऋजुप्रज्ञास्तेन धर्मों द्विधा कृतः ॥१॥ २ पूर्वाणां दुर्विशोभ्यस्तु चरमाणां दुरनुपाल्यः कल्पः मध्यमानान्तु सुविशोध्यः खनुपाल्यश्च ॥२॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy