SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ २०० ॥ पंडिसेवणा समासेणं १ । मूलगुणे पंचविहा पिंडविसोहाइगी इयरा ॥ १ ॥” तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्“आलोयण १ पडिक्कमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५ । तव ६ छेय ७ मूल ८ अणवडया य ९ पारंचिए १० चैव ॥ १ ॥” इति प्रतिषेवणाप्रायश्चित्तं १, संयोजनम् - एकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः सोऽप्युदकार्ब्रहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकस्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, | तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रा यश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेत्रं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भ वति अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च - "पंचाईयारोवण ने यव्वा जाव होंति छम्मासा । तेण पर मासियाणं छण्हुवरिं जोसणं कुज्जा ॥ १ ॥” इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति तथा परिकुञ्चनम् - अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुचना परिवञ्चना वा उक्तं च - "दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प"त्ति, तथाहि - सच्चित्ते अञ्चित्तं *१ जणवयपडिसेवियं च अद्धाणे २ । सुभिक्खे य दुभिक्खे ३ हट्ठेण तहा गिलाणेणं ॥ १ ॥” इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीठादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम् १ प्रतिषेवणा समासेन । मूलगुणेषु पंचविधा पिंडविशोष्यादिका इतरा ॥ १ ॥ २ आलोचनं प्रतिक्रमणं मित्रं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाचितं चैव ॥ १ ॥ ३ पंचादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासास्ततः परं मासादीनां षण्णामुपरि शोषणं कुर्यात् ॥ १ ॥ ४ सचित्तमचितं जनपद प्रतिसेवितं चाध्वनि सुभिक्षे दुर्भिक्षे च हृष्टेन तथा ग्लानेन ॥ १ ॥ Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः १ प्रायश्चित्तं सू० २६३ ॥ २०० ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy