________________
वनिया गुरुणा १३ । अद्धत्तेरसलक्खा पयसंखा बिंदुसारम्मि ॥८॥” इति, तेषु गतं-प्रविष्टं यत् श्रुतं तत्पूर्वगतं-पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते, यस्तु कुलकरादिवक्तव्यता गोचरः स गण्डिकानुयोग इति । पूर्वगतमनन्तरमुक्तं, तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, 'वियत्तकिच्चे'त्ति व्यक्तस्य-भावतो गीतार्थस्य कृत्यं-करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्व पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते, (यद्वा) 'वियत्तेति विशेषेण-अवस्थाद्यौचित्येन विशेषान|भिहितमपि दत्तं-वितीर्णमभ्यनुज्ञातमित्यर्थः, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यम्-अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, 'चियत्तकिच्चेत्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणम्-आसेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा-परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात् "पंडिसेवणा उ भावो सो पुण कुसलोव्व होजऽकुसलो वा । कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो ॥१॥" प्रतिषेवणीयभेदातु "मूलगुणउत्तरगुणे दुविहा | १ वर्णिताः पदसङ्ख्यया अर्द्धत्रयोदश लक्षा बिन्दुसारे पदसयया ॥८॥ २ भावः प्रतिषेवना सः पुनः कुशलो वा भवेदकुशलो वा । कुशलेन भवति कल्पः अकुशलपरिणामाइपः ॥१॥ ३ मूलगुणोत्तरगुणेषु द्विविधा
(
I
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org