________________
तरिकाः, एता मध्यरुचकवास्तव्या अहंतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिगरुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । एते च देवाः संसारिण इति संसारसूत्रं, तत्र संसरणम्-इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वाजीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरज्वात्मके यत्संसरणं स क्षेत्रसंसारः, यत्र वा15 क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासवयनसंवत्सरादिलक्षणस्य संसरणं-चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति । अयश्च द्रव्यादिसंसारोऽनेकनयैदृष्टिवादे विचार्यते इति दृष्टिवादसूत्रं
चउब्विहे दिट्ठिवाए पं० त०-परिकम्म सुत्ताई पुव्वगए अणुजोगे (सू० २६२) चउव्विहे पायच्छित्ते पं० सं०णाणपायच्छित्ते दसणपायच्छित्ते चरित्तपायच्छित्ते चियत्तकिच्चपायच्छित्ते, १। चउब्विहे पायच्छित्ते पं० तं०-परिसेवणा
पायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २ । (सू० २६३) BI 'चउविहे दिदिवाए' इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते-अभिधीयन्ते पतन्ति वा-अवतरन्ति यस्मि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org