________________
श्रीस्थाना
गसूत्रवृत्तिः
स्थानां. उद्देशः१ लोकपालाः
॥१९८॥
8
याणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्र- देशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्त, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानं तुलाकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुञ्जा- वल्लादीति ५ क्षेत्रम्-आकाशं तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्यप्रदेशावगाढान्त, विभागनिष्पन्नमङ्गल्यादि, कालः-समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्खथेयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्याभेदभिन्नं, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति । देवाधिकारे एवेदं सूत्रचतुष्टयं
चत्तारि दिसाकुमारिमहत्तरियाओ पं० २०-रूया रूयंसा सुरूवा रूयावती, चत्तारि विज्जुकुमारिमहत्तरियाओ पं० २० -चित्ता चित्तकणगा सतेरा सोतामणी (सू० २५९) सकस्स णं देविंदस्स देवरन्नो मझिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पं०, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओवमाई ठिई पं० (सू०
२६०) चउबिहे संसारे पं० त०-दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे (सू० २६१) 'चत्तारि दिसा' इत्यादि सुगम, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमह
देवाः सू०२५७ प्रमाणं सू०२५८
॥१९८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org