SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, स च समितिगुप्तिधर्मानुप्रेक्षापरीषह(जय)चारित्ररूपः क्रमेण पञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, आह च-"समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसहा २२ चरित्तं च ५ । सत्तावन्नं भेया पणतिगभेयाइं संवरणे ॥१॥"त्ति, अथवाऽयं द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामि-18 न्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ।। संवरविशेषे चायो| ग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह-एगा वेयणा' वेदनं वेदना-स्वभावनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकापेक्षया अष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्रमिकी-रोगादिजनितेत्येवं द्विविधाऽपि वेदनासामान्यादेकैवेति ॥ अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां निरूपयनाह-एगा निजरा' निर्जरणं निर्जरा विशरणं परिशटनमित्यर्थः, सा चाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन द्वादशविधाऽपि अकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरासामान्यादेकैवेति । ननु निर्जरामोक्षयोः का प्रतिविशेषः ?, उच्यते, देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति ॥ इह च जीवो विशिष्टनिर्जराभाजनं ६ प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह-एगे स्था०४ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy