________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १८ ॥
ण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं - या काचित् शुभमात्रेत्यर्थः - दुःखप्रकर्ष इति तात्पर्य, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखं, तस्यैव च किञ्चित् २पथ्याहारविवर्जनादपथ्याहारपरिवृद्धेरारोग्यसुखहानि:, सर्वथैवाहार परिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्र| कर्षानुभूतिः सा स्वानुरूपकर्म्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात्, सौख्यप्रकर्षानुभूतिवत् यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात् ) स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह च - "कैम्मप्पगरिसजणियं तदवस्सं पगरिसानुभूइओ । सोक्खप्प गरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१॥” इति, 'तदिति दुःखमिति । इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह- 'एगे आसवे' आश्रवन्ति - प्रविशन्ति येन कर्माण्यात्मनीत्याश्रवः, कर्म्मबन्धहेतुरिति भावः, स चेन्द्रियकपायात्रतक्रियायोगरूपः | क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च - " इंदिय ५ कसाय ४ अन्वय ५ किरिया २५ पणचउरपंचपणुवीसा । जोगा तिन्नेव भवे आसवभेया उ बायाला ॥ १ ॥” इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यज्जलान्तर्गतनावादौ तथाविधेच्छिद्रैर्जलप्रवेशनं भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥ अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह - 'एगे संवरे' संत्रियते कर्मकारणं प्राणा१ कर्मप्रकर्षजनितं तद् (दुःखं ) अवश्यं प्रकर्षानुभूतेः । सौख्यप्रकर्षानुभूतिर्यथा पुण्यप्रकर्षप्रभवा ॥ १ ॥ २ तथाविधपरिणामेन छिद्रे ०
Jain Education International
For Personal & Private Use Only
१ स्थानाध्ययने
पापसत्ता
11 26 11
www.jainelibrary.org