________________
त्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम् , तस्यैवापथ्यस्य किञ्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्वमारोग्यकरं, सर्वाहारपरित्यागाच्च प्राणमोक्ष इति, आह च-"पावुकरिसेऽधमया तरतमजोगाऽवकरिसओ सुभया । तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥१॥” त्ति, अत्रोच्यते, यदुक्तम्-'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम् , यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात् , दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः (प्रकर्षानुभूतिरिति)स्वानुरूपपुण्यकर्मप्रकर्षजनिताभविष्यतीति प्रमाणफलमिति। पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह-एगे पावे'पाशयतिगुण्डयत्यात्मानं पातयति चात्मन आनन्दरसं शोषयति क्षपयतीति पापम् , तच्च ज्ञानावरणादि यशीतिभेदम् , यदाऽऽह"नाणंतरायदसगं १० देसण णव १९ मोहणीयछव्वीसं ४५ अस्सायं ४६ निरयाऊ४७ नीयागोएण अडयाला ४८॥१॥ निरयदुर्ग २ तिरियदुर्ग ४ जाइचउक्कं च ८ पंच संघयणा १३ । संठाणाविय पंच उ १८ वन्नाइ चउक्कमपसत्थं २२ ॥२॥ उवधाय २३ कुविहयगई २४ थावरदसगेण होति चोत्तीसं ३४ । सव्वाओ मिलिआओ बासीती पावपगईओ ८२ ॥३॥" तदेवं ब्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति । ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्य, यत्पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं च तत्पु
१ पापोत्कर्षेऽधमता तरतमयोगाद् अपकर्षतः शुभता । तस्यैव क्षये मोक्षः अपथ्यभक्कोपमानात् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org