________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७ ॥
Jain Education
तस्मादस्ति कर्मेति, स्यान्मतिः - सुखदुःखानुभूतेर्दृष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्म्मपरिकल्पनया ?, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो - दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्वि| शिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्च समानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म्म, तस्मादस्ति कर्मेति, आह च - " जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व हेऊ य से कम्मं ॥ १ ॥” ति, किञ्च - अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात् यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकं यच्छरीरपूर्वकं चेदं बालकशरीरं तत्कर्म, तस्मादस्ति कर्मेति, आह च - " बालेसरीरं देहंतरपुव्वं इंदियाइमत्ताओ । जह बालदेहपुच्वो जुवदेहो पुब्वमिह कम्मं ॥ १ ॥” ति, ननु कर्म्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत्यापस्यैव तरतमयोगादपकृष्टस्य फलं यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वा
१ स्थानाध्ययने
पुण्यसत्ता
१ यस्तुल्यसाधनयोः फले विशेषः स न विना हेतुम् । कार्यत्वात् गौतम ! घट इव हेतुश्च तस्य कर्म ॥ १ ॥ २ बालशरीरं देहान्तरपूर्वं इन्द्रियादिमत्त्वात् । ४ ॥ १७ ॥ यथा बालदेहपूर्वी युवदेहः पूर्वमिह कर्म ॥ १ ॥
For Personal & Private Use Only
ainelibrary.org