SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ४ स्थाना० | उद्देशः१ | संवासः सू० २४८ कषायाः सू० २४९ ॥१९३॥ स्तिर्यग्वा छविरित्युच्यते । अनन्तरं संवास उक्ता, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह'चत्तारि कसायेत्यादि, तत्र कृषन्ति-विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तं च-"सुहदुक्खबहुसईयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति ॥१॥" अथवा कषति-हिनस्ति देहिन इति कषं-कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति-गमयन्ति देहिन इति कषायाः, उक्तं च "कैम्म कसं भवो वा कसमाओ सिं जओ कसायातो । कसमाययति व जओ गमयंति कसं कसायत्ति ॥१॥” इति, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः-क्रोधमोहनीयोदयस- म्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकमैव वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम्-अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वश्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनम्-अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । 'एव'मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइट्टिए'त्ति चतुर्बु-आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र 'आयपइहिए'त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठितः आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्र १ सुखदुःखबहुशस्यं कर्मक्षेत्रं कर्षन्ति ते यस्मात् । यच्च जीचं कलषयन्ति तेन कषाया इति उच्यन्ते ॥१॥ २ यद्वा कषः कर्म भवो वा कषः अनयोरायो यतः कषायात् कषमाययंति वा यतो गमयन्ति वा कषं कषाया इति ॥१॥ ॥१९३॥ in Education inter ne For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy