________________
तिष्ठिता, उक्त च-"सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमं च दृष्टं यथाऽऽयुकम् ॥१॥” इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्सरिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालोभैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां ४ स्वं स्वमुत्सत्तिस्थानं प्रतीत्य-आश्रित्य एवं वस्तु सचेतनादि ३ वास्तु वा-गृहम् शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरणं, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं भवमनुबध्नाति-अविच्छिन्नं करोतीत्येवंशीलोडनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी-सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु 'पढमिल्लुयाण उदए नियमत्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं सङ्गतमाभातीति, अत्रोच्यते, 'पढमेल्लुयाणे'त्यादि यदुक्तं तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्थावृतत्वात् किमपरेण मिथ्यात्वेनः प्रयोजनं १, आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा "केवलियनाणलंभो
१ कषायाणां क्षयादन्यत्र न केवलज्ञानलंभः॥
य, न चोपशमादिभिश्व चानबन्धी सम्यग्दर्शनसहभाविज्ञानाति-अविच्छिन्नं करोतीत्येव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org