________________
श्रीस्थाना- सासुहुमकिरिए'त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया का- ङ्गसूत्र- यिकी उच्छासादिका यस्मिंस्तत्तथा, न निवर्तते-न व्यावर्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च वृत्तिः | "निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ॥१॥" इति
तृतीयः, तथा, 'समुच्छिन्नकिरिएत्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मि॥१९१॥
स्तत्तथा, 'अप्पडिवाए'त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि-"तेस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ॥१॥” इति, इह चान्त्ये शुक्लभेदद्वये अयं क्रमः-केवली किलान्तर्मुहूर्त्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र च-'पंजत्तमेत्तसन्निस्स जत्तियाई जहन्न जोगिस्त । होति मणोदव्वाई तव्वावारो य जम्मेत्तो॥१॥ तदसंखगुणविहीणे समए समए निरंभमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेजसमएहिं ॥२॥ पजत्तमेत्तबिंदिय जहन्नवइजोगपजया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ ३ ॥ सव्ववइजोगरोह संखातीएहिं कुणइ समएहिं ।
४ स्थानकाध्ययने उद्देशः १ ध्यानानि सू० २४७
ससससससस
१ निर्वाणगमनकालेऽर्द्धनिरुद्धयोगस्य केवलिनः सूक्ष्मक्रियानिवृत्ति तृतीयं सूक्ष्मकायक्रियस्य ॥१॥ २ तस्यैव च शैलेशीगतस्य शैल इव निष्प्रकंपस्य । व्युच्छिन्नक्रियमप्रतिपाति ध्यानं परमशुक्र ॥१॥ ३ संझिनः पर्याप्तमात्रस्य यावन्ति जघन्ययोगिनः भवंति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः ॥१॥ तदसञ्जयगुणविहीनानि समये समये निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसङ्ख्यातसमयैः ॥ २॥ पर्याप्तमात्रद्वींद्रियस्य जघन्यवाग्योगपर्यया ये तु तदसञ्जयगुणविहीनान समये समये निधन् ॥ ३॥ सर्ववाग्योगरोध सङ्ख्यातीतैः करोति समयैः ।
॥१९१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org