________________
रानप्रेक्षेति । अथ शुक्लमाह-'पुहुत्तवितकेत्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीना योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रिति (तत्त्वा० अ० ९ सू० ४६) वचनात् , सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च-"उप्पायठितिभंगाई पज्जयाणं जमेगदव्वमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥१॥ सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्कं । होति पुहुत्तवियकं सवियारमरागभावस्स ॥२॥" इत्येको भेदः, तथा 'एगत्तवियकेत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम् , तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च-"जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पज्जाए ॥१॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुवगयसुयालंबणमेगत्तवियक्कमवियारं ॥२॥” इति द्वितीयः, तथा
१ उत्पादस्थितिभंगादिपर्यवानां यदेकस्मिन् द्रव्ये नानानयैरनुसरणं पूर्वगतश्रुतानुसारेण ॥ १॥ सविचारमर्थव्यञ्जनयोगान्तरतस्तत् प्रथमशुक्लम् भवति पृथक्त्ववितर्क सविचारमरागभावस्य ॥ २ ॥ २ यत्पुनः सुनिष्प्रकपं निवातस्थानप्रदीपमिव चित्तं उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये ॥ १॥ अविचारमर्थव्यजनयोगान्तरतस्तत् द्वितीयं धनम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org