SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ४ स्थानकाध्ययने | उद्देशः१ ध्यानानि सू० २४७ श्रीस्थाना- IIज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः-स्वभावोऽनुपदेशस्तेन, तथा सूत्रम्-आगमः तत्र तस्माद्वा, तथा अवगाहनमवगसूत्र- गाढम्-द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिः अथवा ओगाढत्ति साधुप्रत्यासन्नीभूतस्तस्य साधूवृत्तिः पदेशाद्रुचिः, उक्तं च-"आगमउवएसेणं निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग ॥१॥” इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं, धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणा॥१९ ॥ र्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना-विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तनेति, अनुप्रेक्षणमनुप्रेक्षा-सूत्रार्थानुस्मरणमिति । अथानुत्प्रेक्षा उच्यन्ते-अन्विति-ध्यानस्य पश्चाप्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, तत्र ‘एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥१॥" इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा—“कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्यादि भङ्गरम् ॥१॥" इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा | "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥" एवमशरणस्य|अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताश्चैव ॥१॥” इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसा १ आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानां भावानां श्रद्धधानं तद्धर्मध्यानिनो लिंग ॥१॥ ॥१९ ॥ dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy