SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ नानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुप्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहु-बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थ या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । अथ धर्म्य चतुर्विधमिति स्वरूपेण चतुषु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् 'चउप्पंडोया मिति पाठस्तत्र चतुषु पदेषु प्रत्यवतारो यस्येति विग्रह इति, "आणाविजए'त्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निणीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा या विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयं, एवं शेषाण्यपि, नवरं अपायारागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः-फलं कर्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वी-& पसमुद्रजीवादीनामिति, आह च-"आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाथैरपायस्तु ॥ १॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्वि ॥२॥" ति, एतल्लक्षणान्याह-'आणारुईत्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं आ-| dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy